वांछित मन्त्र चुनें

माकु॒ध्र्य॑गिन्द्र शूर॒ वस्वी॑र॒स्मे भू॑वन्न॒भिष्ट॑यः । व॒यंव॑यं त आसां सु॒म्ने स्या॑म वज्रिवः ॥

अंग्रेज़ी लिप्यंतरण

mākudhryag indra śūra vasvīr asme bhūvann abhiṣṭayaḥ | vayaṁ-vayaṁ ta āsāṁ sumne syāma vajrivaḥ ||

पद पाठ

मा । अ॒कु॒ध्र्य॑क् । इ॒न्द्र॒ । शू॒र॒ । वस्वीः॑ । अ॒स्मे इति॑ । भू॒व॒न् । अ॒भिष्ट॑यः । व॒यम्ऽव॑यम् । ते॒ । आ॒सा॒म् । सु॒म्ने । स्या॒म॒ । व॒ज्रि॒ऽवः॒ ॥ १०.२२.१२

ऋग्वेद » मण्डल:10» सूक्त:22» मन्त्र:12 | अष्टक:7» अध्याय:7» वर्ग:8» मन्त्र:2 | मण्डल:10» अनुवाक:2» मन्त्र:12


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शूर इन्द्र) हे पराक्रमी परमात्मा या राजन् ! (अस्मे) हमारी (वस्वीः-अभिष्टयः) अत्यन्त बसानेवाली अभिकाङ्क्षाएँ (मा अक्रुध्य्रक् भूवन्) अकिंचित्कर न होवें-व्यर्थ न जावें (वयं वयम्) अवश्य हम सब (वज्रिवः) हे ओजस्वी परमात्मन् या राजन् ! (ते आसां सुम्ने स्याम) इन अभिकाङ्क्षाओं के तेरे प्रदान किये सुख मे निरन्तर रहें ॥१२॥
भावार्थभाषाः - पराक्रमी परमात्मा या राजा हमारी बसानेवाली आकाङ्क्षाओं को व्यर्थ नहीं जाने देता। हम सब परमात्मा तथा राजा के दिये हुए आकाङ्क्षा-सुख में निरन्तर रहें ॥१२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शूर इन्द्र) हे पराक्रमिन् परमात्मन् राजन् वा ! (अस्मे) अस्माकम् (वस्वीः अभिष्टयः) वासयित्रीः अभिकाङ्क्षाः (मा-अक्रुध्य्रक्-भूवन्) मा-अकिञ्चित्कर्यः अभवन् न व्यर्था भवन्तु (वयं वयम्) अवश्यं वयं सर्वे (वज्रिवः) ओजस्विन् ! (ते-आसां सुम्ने स्याम) आसामभिष्टीनां सुखे वयं स्याम ॥१२॥